अमरकोशः


श्लोकः

रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ । तमस्तु राहु: स्वर्भानुः सैंहिकेयो विधुंतुदः ॥ २६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रौहिणेय रौहिणेयः पुंलिङ्गः रोहिण्या अपत्यम् । ढक् तद्धितः अकारान्तः
2 बुध बुधः पुंलिङ्गः बुध्यते । कृत् अकारान्तः
3 सौम्य सौम्यः पुंलिङ्गः सोम इव । य-अण् तद्धितः अकारान्तः
4 सौरि सौरिः पुंलिङ्गः सूरस्यार्कस्यापत्यम् । इञ् तद्धितः इकारान्तः
5 शनैश्चर शनैश्चरः पुंलिङ्गः शनैश्चरति पङ्गुत्वात् । तत्पुरुषः समासः अकारान्तः
6 तम तमः पुंलिङ्गः ताम्यति । असुन् उणादिः अकारान्तः
7 राहु राहुः पुंलिङ्गः रहति गृहीत्वा त्यजति चन्द्रार्कौ । उण् बाहुलकात् उकारान्तः
8 स्वर्भानु स्वर्भानुः पुंलिङ्गः स्वराकाशे विपरीतलक्षणया भाति । तत्पुरुषः समासः उकारान्तः
9 सैंहिकेय सैहिकेयः पुंलिङ्गः सिंहिकाया अपत्यम् । ढक् तद्धितः अकारान्तः
10 विधुंतुद विधुंतुदः पुंलिङ्गः विधुं तुदति । तत्पुरुषः समासः अकारान्तः