विधुंतुदः

सुधाव्याख्या

विधुं तुदति । विध्वरुषोस्तुदः (३.२.३५) इति खश् । ‘अरु–’ (६. ३.६७) इति मुम् ।


प्रक्रिया

धातुः - तुदँ व्यथने


तुद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विधु + अम् + तुद् + खश् - विध्वरुषोः तुदः 3.2.35, उपपदमतिङ् 2.2.19
विधु + तुद् + खश् - सुपो धातुप्रातिपदिकयोः 2.4.71
विधु + तुद् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
विधु + मुम् + तुद - अरुर्द्विषदजन्तस्य मुम् 6.3.67
विधुम् + म् + तुद - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विधुंतुद + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विधुंतुद + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विधुंतुद + रु - ससजुषो रुः 8.2.66
विधुंतुद + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विधुंतुदः - खरवसानयोर्विसर्जनीयः 8.3.15