सौम्यः

सुधाव्याख्या

सोम इव । सोम्यः । 'शाखादिभ्यो य:’ (५.३.१०३) । ततः प्राज्ञाद्यण् (५.४.३८) । (‘सौम्यः सोमात्मजेऽनुग्रे मनोज्ञे सोमदैवते । सौम्याः पुनर्मृगशिरः शिरःस्थाः पञ्च तारकाः') ।।