राहुः

सुधाव्याख्या

रहति गृहीत्वा त्यजति चन्द्रार्कौ । ‘रह त्यागे’ (भ्वा० प० से०) भ्वादिः । बाहुलकादुण् । ‘रहश्च' इत्युण्-इति मुकुटस्य प्रमादः । एतादृशसूत्रादर्शनात् ।