तमः

सुधाव्याख्या

तम इति । ताम्यति । ‘तमु ग्लानौ (दि० प० से०) । असुन् (उ० ४१८९) । तमु काङ्क्षायाम्’ (दि० प० से०) इति मुकुटस्य प्रमादः। ताम्यतीति विगृहीतत्वात् । 'तमांसि गुणतिमिरसैंहिकेयाः’ इति त्रिकाण्डशेषः । पचाद्यचि (३.१.१३४) अदन्तः पुंलिङ्गोऽपि । 'स्वर्भानुस्तु तमो राहुः | इति पुंस्काण्डे रत्नकोषामरमालयोर्दर्शनात् ।