अमरकोशः


श्लोकः

अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् । प्रालेयं महिका चाथ हिमानी हिमसंहतिः ॥ १८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अवश्याय अवश्यायः पुंलिङ्गः अवश्यायते शैत्यमापाद्यते । कृत् अकारान्तः
2 नीहार नीहारः पुंलिङ्गः निह्रियते । घञ् कृत् अकारान्तः
3 तुषार तुषारः पुंलिङ्गः तोषयति । आरन् उणादिः अकारान्तः
4 तुहिन तुहिनम् नपुंसकलिङ्गः तोहति । इनन् उणादिः अकारान्तः
5 हिम हिमम् नपुंसकलिङ्गः हनोति वर्धते । मक् उणादिः अकारान्तः
6 प्रालेय प्रालेयम् नपुंसकलिङ्गः प्रलीयन्ते पदार्था अत्रेति हिमाद्रिः प्रलयः । अण् तद्धितः अकारान्तः
7 महिका महिका स्त्रीलिङ्गः मह्यते । क्वुन् उणादिः आकारान्तः
8 हिमानी हिमानी स्त्रीलिङ्गः महद्धिमम् । ङीष् स्त्रीप्रत्ययः ईकारान्तः
9 हिमसंहति हिमसंहतिः स्त्रीलिङ्गः हिमानां संहतिः । तत्पुरुषः समासः इकारान्तः