तुहिनम्

सुधाव्याख्या

तोहति । ‘तुहिर् दुहिर् अर्दने’ (भ्वा० प० से०) । ‘वेपितुह्योर्ह्रस्वश्च' (उ० २.५२) इतीनन् ।


प्रक्रिया

धातुः - तुहिँर् अर्दने


तुह् - इर इत्संज्ञा वक्तव्या । वार्तिकम् ।
तुह् + इनन् - वेपितुह्योर्ह्रस्वश्च (२.५२) । उणादिसूत्रम् ।
तुह् + इन - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
तुहिन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तुहिन + अम् - अतोऽम् 7.1.24
तुहिनम् - अमि पूर्वः 6.1.107