नीहारः

सुधाव्याख्या

निह्रियते । हृञ् हरणे’ (भ्वा० उ० अ०) । घञ् (३.३.१९) । 'उपसर्गस्य घञि–’ (६.३.१२२) इति दीर्घः । यत्तु ‘अध्यायन्याय-’ (३.३.१२२) इत्यत्र चकाराद्धञ् - इति मुकुटेनोक्तम् । तन्न । ‘अकर्तरि च-’ (३.३.१९) इति घञः सिद्धत्वात् ।