अमरकोशः


श्लोकः

भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके । चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता ॥ १६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भित्त भित्तम् नपुंसकलिङ्गः भिद्यते स्म । निपातनम् अकारान्तः
2 शकल शकलम् पुंलिङ्गः, नपुंसकलिङ्गः शक्नोति, शक्यते वा । कलच् उणादिः अकारान्तः
3 खण्ड खण्डः पुंलिङ्गः, नपुंसकलिङ्गः खण्ड्यते । घञ् कृत् अकारान्तः
4 अर्ध अर्धः पुंलिङ्गः ऋध्नोत्यनेन । घञ् कृत् अकारान्तः
5 अर्ध अर्धम् नपुंसकलिङ्गः घञ् कृत् अकारान्तः
6 चन्द्रिका चन्द्रिका स्त्रीलिङ्गः चन्द्रोऽस्त्यस्याः । ठन् तद्धितः आकारान्तः
7 कौमुदी कौमुदी स्त्रीलिङ्गः कुमुदानामियम् । अण् तद्धितः ईकारान्तः
8 ज्योत्स्ना ज्योत्स्ना स्त्रीलिङ्गः ज्योतिरस्त्यस्याम् । निपातनात् आकारान्तः
9 प्रसाद प्रसादः स्त्रीलिङ्गः घञ् कृत् अकारान्तः
10 प्रसन्नता प्रसन्नता स्त्रीलिङ्गः प्रसीदति स्म । तल् तद्धितः आकारान्तः