चन्द्रिका

सुधाव्याख्या

चन्द्रिकेति । चन्द्रोऽस्त्यस्याः । ठन् (५.२.११५) । चन्द्रं कायति वा इति मुकुटः । तन्न । इत्वाभावप्रसङ्गात् । चन्द्रयति । तत्करोति-’ (वा० ३.१.२६) इति ण्यन्तात् ण्वुल् (३.१. १३३) इति वा । चन्द्रिका चन्द्रिमा चार्वी’ इति शब्दार्णवः ।