शकलम्

सुधाव्याख्या

शक्नोति, शक्यते वा । ‘शक्लृ शक्तौ (स्वा० प० अ०) । ‘शकिशम्योर्नित्’ (उ० १.११२) इति कलच् । 'शकलं त्वचि खण्डे च रागवस्तुनि वल्कले इति विश्वः ।