खण्डः

सुधाव्याख्या

‘खडि भेदने’ (चु० प० से०) खण्ड्यते । कर्मणि घञ् (३.३.१९) । भावे घञ् (३.३.१८) इति मुकुटोक्तिरसंगता । खण्डनक्रियाया एव ग्रहणप्रसङ्गात् । खण्ड्यमानस्याग्रहणप्रसङ्गात् । ‘खनु अवदारणे’ (भ्वा० उ० से०) । ञमन्ताडः (उ० १.११४) इति वा । 'खण्डोऽर्ध ऐक्षवे । मणिदोषे च' इति हैमः । ('खण्डोऽस्त्री शकले नेक्षु विकारमणिदोषयोः । खण्डः पानान्तरे भेदे') । वा पुंसि-इति पूर्वोत्तराभ्यां सम्बध्यते ।