प्रसन्नता

सुधाव्याख्या

प्रसीदति स्म । ‘गत्यर्थ (३.४.७२) इति क्तः । प्रसन्नस्य भावः । तल् (५.१.११९) ।


प्रक्रिया

धातुः - षदॢँ विशरणगत्यवसादनेषु


षद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सद् - धात्वादेः षः सः 6.1.64
प्र + सद् + क्त - गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च 3.4.72
प्र + सद् + त - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
प्र + सद् + न् + अ - रदाभ्यां निष्ठातो नः पूर्वस्य च दः 8.2.42
प्र + सन् + न् + अ - यरोऽनुनासिकेऽनुनासिको वा 8.4.45
प्रसन्न + ङस् + तल् - तस्य भावस्त्वतलौ 5.1.119
प्रसन्न + तल् - सुपो धातुप्रातिपदिकयोः 2.4.71
प्रसन्न + त - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
प्रसन्नत + टाप् - अजाद्यदन्तम्‌ 2.2.33
प्रसन्नत + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
प्रसन्नता - अकः सवर्णे दीर्घः 6.1.101
प्रसन्नता + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रसन्नता + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रसन्नता - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68