अमरकोशः


श्लोकः

शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका । जलनीली तु शेवालं शैवलोऽथ कुमुद्वती ॥ ३८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शालूक शालूकम् नपुंसकलिङ्गः एषां सौगन्धिकादीनां कन्दो मूलम् । ऊकण् उणादिः अकारान्तः
2 वारिपर्णी वारिपर्णी स्त्रीलिङ्गः वारिणि पर्णान्यस्याः । बहुव्रीहिः समासः ईकारान्तः
3 कुम्भिका कुम्भिका स्त्रीलिङ्गः कुम्भोऽस्त्यस्या: । ठन् तद्धितः आकारान्तः
4 जलनीली जलनीली स्त्रीलिङ्गः जलं नीलयति । अण् कृत् ईकारान्तः
5 शेवाल शेवालम् नपुंसकलिङ्गः वालन् उणादिः अकारान्तः
6 शैवल शैवलः पुंलिङ्गः जले शेते तिष्ठति । वालन् उणादिः अकारान्तः
7 कुमुद्वती कुमुद्वती स्त्रीलिङ्गः ड्मतुप् ईकारान्तः