वारिपर्णी

सुधाव्याख्या

वारीति । वारिणि पर्णान्यस्याः । 'पाककर्ण-' (४.१.६४) इति ङीष् । यद्वा वारि पिपर्ति । ‘पॄ पालनपूरणयोः’ (जु० प० से०) । 'थापॄवस्यज्यतिभ्यो नः' (उ० ३.६) । 'जाते-' (४.१.६३) इति ङीप् । अत एव 'कुम्भीको वारिपर्णः स्यात्-' इत्येके पठन्ति ।