शालूकम्

सुधाव्याख्या

शालूकमिति । एषां सौगन्धिकादीनां कन्दो मूलम् । शल्यते, शलति वा । 'शल चलनसंवरणयोः (भ्वा० आ० से०) । ‘शलिमण्डिभ्यामूकण्' (उ० ४.४२) । वृद्धिः (७.२.११६) च ॥ एकम् उत्पलकन्दस्य ।