जलनीली

सुधाव्याख्या

जलेति । जलं नीलयति । णील वर्णे' (भ्वा० प० से०) । णिच् (३.१.२५) । ‘कर्मण्यण्' (३.२.१) ॥ जले शेते तिष्ठति । ‘शीङो वलञ्वलन्वालनः (उ० ४.३८) । शेवलश्चैव शेवालः शैवलो जलनीलिका' (इति वाचस्पतिः) ।


प्रक्रिया

धातुः - णीलँ वर्णे


नील् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नील् + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
नील् + इ - चुटू 1.3.7, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
जल + अम् + नील् + इ + अण् - कर्मण्यण् 3.2.1
जल + नील् + इ + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
जल + नील् + अण् - णेरनिटि 6.4.51
जल + नील् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
जलनील + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
जलनील + ई - लशक्वतद्धिते 1.3.8, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
जलनील् + ई - यस्येति च 6.4.148
जलनीली + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
जलनीली + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
जलनीली - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68