अमरकोशः


श्लोकः

देविकायां सरय्वां च भवे दाविकसारवौ । सौगन्धिकं तु कह्लारं हल्लकं रक्तसन्ध्यकम् ॥ ३६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दाविक दाविकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दीव्यति । ण्वुल् कृत् अकारान्तः
2 सारव सारवः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सरय्वां च भवे । अण् तद्धितः अकारान्तः
3 सौगन्धिक सौगन्धिकः नपुंसकलिङ्गः सुगन्ध्येव । ठक् तद्धितः अकारान्तः
4 कह्लार कह्लारम् नपुंसकलिङ्गः कस्य जलस्य हार इव । अच् कृत् अकारान्तः
5 हल्लक हल्लकम् नपुंसकलिङ्गः कस्य जलस्य हार इव । ण्वुल् कृत् अकारान्तः
6 रक्तसन्ध्यक रक्तसन्ध्यकम् नपुंसकलिङ्गः रक्तं सन्ध्येव । कन् तद्धितः अकारान्तः