रक्तसन्ध्यकम्

सुधाव्याख्या

रक्तं सन्ध्येव । इवार्थे कन् (५.३.९६) । 'केऽण:’ (७.४.१३) । रक्तान् संधीन् अकति । ‘अक कुटिलायां गतौ' (भ्वा० प० से०) । मूलविभुजादिः (वा० ३.२.५) इति वा । (२) द्वे रक्तकह्लारस्य द्वे रक्तवर्णात्रिकालविकासिपुष्पस्य वा ।