दाविकः

सुधाव्याख्या

त्रिष्विति । दीव्यति । ‘दिवु क्रीडादौ’ (दि० प० से०) । ण्वुल् (३.१.१३३) । देविकायां नद्याम् सरति । 'सर्तेरयुः’ (उ० ३.२२) अयुः इत्येके । सरय्वां च भवे । ‘तत्र भवः’ (४.३.५३) इत्यण् । देविकाशिंशपा-' (७.३.१) इत्यचामादेरात्त्वम् । 'दाण्डिनायन–’ (६.४.१७४) इति लोपः । स्त्रियां टिड्ढा-' (४.१.१५) इति ङीप् ॥ (१) देविकासरयूद्धवयोः क्रमेणैकैकम् ।


प्रक्रिया

धातुः - दिवुँ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु


दिव् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दिव् + ण्वुल् - ण्वुल्तृचौ 3.1.133
दिव् + वु - चुटू 1.3.7, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
दिव् + अक - युवोरनाकौ 7.1.1
देवक - पुगन्तलघूपधस्य च 7.3.86
देवक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
देवक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
देवका - अकः सवर्णे दीर्घः 6.1.101
देविका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
देविका + ङि + अण् - तत्र भवः 4.3.53
देविका + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
देविका + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
देविक् + अ - यस्येति च 6.4.148
दाविक - देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात्‌ 7.3.1
दाविक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दाविक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दाविक + रु - ससजुषो रुः 8.2.66
दाविक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दाविकः - खरवसानयोर्विसर्जनीयः 8.3.15