सौगन्धिकः

सुधाव्याख्या

सौगन्धिकमिति । सुगन्ध्येव । स्वार्थे विनयादिभ्यष्ठक् (५.४.३४) । शोभनो गन्धः प्रयोजनमस्य । प्रयोजनम्’ (५.१.१०९) इति ठक् इति वा । ‘सौगन्धिकं तु कह्लारे पद्मरागे च कत्तृणे । (पुंलिङ्गो गन्धपाषाणे सुगन्धव्यवहारिणि) |