हल्लकम्

सुधाव्याख्या

हल्लकमिति । हल्लति । ‘हल्ल विकसने । ण्वुल् (३.१.१३३) । यद्वा हलनम् । सम्पदादिः (वा० ३.३.१०८) । हलं लाति 'ला दाने (अ० प० अ०) ‘आतोऽनुप-’ (३.२.३) इति कः । ‘संज्ञायां कन्’ (५.३.७५) ॥