अमरकोशः


श्लोकः

मद्गुरस्य प्रिया शृङ्गी दुर्नामा दीर्घकोशिका । जलाशया जलाधारस्तत्रागाधजलो ह्रदः ॥ २५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शृङ्गी शृङ्गी स्त्रीलिङ्गः मद्गुरो मत्स्यभेदः । गन् उणादिः ईकारान्तः
2 दुर्नामन् दुर्नामा पुंलिङ्गः दुर्निन्दितं नामास्याः । बहुव्रीहिः समासः नकारान्तः
3 दीर्घकोशिका दीर्घकोशिका स्त्रीलिङ्गः दीर्घः कोशो यस्याः । बहुव्रीहिः समासः आकारान्तः
4 जलाशय जलाशयः पुंलिङ्गः जलम् आशयो हृदयम् अस्य । घः कृत् अकारान्तः
5 जलाधार जलाधाराः पुंलिङ्गः आध्रियतेऽत्र । घञ् कृत् अकारान्तः
6 ह्रद ह्रदः पुंलिङ्गः ह्रादते । अच् कृत् अकारान्तः