ह्रदः

सुधाव्याख्या

तत्रेति । तत्र तेषु मध्ये । अगाधं जलं यत्र स जलाशयः । ह्रादते । ‘ह्राद अव्यक्ते शब्दे’ (भ्वा० आ० से०) । पचाद्यच् (३.१.१३४) । पृषोदरादित्वात् (६.३.१०९) ह्रस्व: । एकम् अगाधजलकूपस्य ।