दीर्घकोशिका

सुधाव्याख्या

दीर्घः कोशो यस्याः । 'जातेः- (४.१.६३) इति ङीष् । ‘संज्ञायां कन्' (५.३.७५) । केऽण:’ (७.४.१३) इति ह्रस्वः । (मूर्धन्यषान्ता च) ‘तालव्या मूर्धन्याश्चैते शटी च परिवेशः । विश्वक्सेनो भ्रेशः प्रतिष्कशः कोशविशदौ च' इत्यूष्मविवेकः ।


प्रक्रिया

दीर्घ + सु + कोश + सु - अनेकमन्यपदार्थे 2.2.24
दीर्घकोश - सुपो धातुप्रातिपदिकयोः 2.4.71
दीर्घकोश + ङीष् - जातेरस्त्रीविषयादयोपधात्‌ 4.1.63
दीर्घकोश + ई - लशक्वतद्धिते 1.3.8, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
दीर्घकोश् + ई - यस्येति च 6.4.148
दीर्घकोशी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दीर्घकोशी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दीर्घकोशी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
दीर्घकोशी + कन् - संज्ञायां कन् 5.3.75
दीर्घकोशी + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
दीर्घकोशिक केऽणः 7.4.13
दीर्घकोशिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
दीर्घकोशिक + आ - चुटू 1.3.7, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
दीर्घकोशिका - अकः सवर्णे दीर्घः 6.1.101
दीर्घकोशिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दीर्घकोशिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दीर्घकोशिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68