शृङ्गी

सुधाव्याख्या

मद्गुरस्येति । मद्गुरो मत्स्यभेदः । योग्यतया सादृश्याद्वा तस्य प्रिया स्त्री । शृणाति । 'शॄ हिंसायाम्' (क्र्या० प० से०) । गृणातेर्हस्वश्च' (उ० १.१२६) इति गन् ह्रस्वत्वं कित्वं नुडागमश्च । ‘पुंयोगात्- (४.१.४८) इति जातेः-' (४. १.६३) इति वा ङीष् । ‘मद्गुरी’ इत्यपि । 'भार्या भेकस्य वर्षाभ्वी श्रृङ्गी स्यान्मद्गुरस्य तु । शिली गण्डूपदस्यापि दुलिः स्यात्कमठस्य तु' इत्यमरमाला । ('श्रृङ्गी स्वर्णमीनविशेषयोः । विषायामृषभौषध्याम्’) (१)