दुर्नामा

सुधाव्याख्या

दुर्नामेति । दुर्निन्दितं नामास्याः । ‘अनो बहुव्रीहेः’ (४.१.१२) इति ङीप् न । ('दुर्नाम क्लीबमर्शसि । स्याद्दीर्घकोषिकायां स्त्री')* ॥ ‘डाबुभाभ्याम्-' (४.१.१३) ॥ ‘अन उपधा-' (४.१.२८) इति वा ङीप् । दुर्नाम्नी । क्षुभ्नादित्वात् (८.४.३९) न णत्वम् ॥


प्रक्रिया

दुर् + नामन् + सु - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
दुर् + नामन् - सुपो धातुप्रातिपदिकयोः 2.4.71
दुर्नामान् - सर्वनामस्थाने चासम्बुद्धौ 6.4.8
दुर्नामा - नलोपः प्रातिपदिकान्तस्य 8.2.7