अमरकोशः


श्लोकः

सहस्रदंष्ट्रः पाठीन: उलूपी शिशुकः समौ । नलमीनश्चिलिचिमः प्रोष्ठी तु शफरी द्वयोः ॥ १८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सहस्रदंष्ट्र सहस्रदंष्ट्रः पुंलिङ्गः सहस्रं दंष्ट्रा यस्य । बहुव्रीहिः समासः अकारान्तः
2 पाठीन पाठीनः पुंलिङ्गः पाठीं पृष्ठं नमयति । णिच् कृत् अकारान्तः
3 उलूपिन् उलूपी पुंलिङ्गः उ विस्मयजनकं रूपमस्यास्ति । इनिः तद्धितः नकारान्तः
4 शिशुक शिशुकः पुंलिङ्गः शिशुः शिशुमारः । तस्य प्रतिकृतिरिव । कन् तद्धितः अकारान्तः
5 नलमीन नलमीनः पुंलिङ्गः नलवनस्थो मीनः । अकारान्तः
6 चिलिचिम चिलिचिमः पुंलिङ्गः चिलिं चिलिं विलासं मिमीते । कित् उणादिः अकारान्तः
7 प्रोष्ठी प्रोष्ठी पुंलिङ्गः, स्त्रीलिङ्गः प्रकृष्ट ओष्ठोऽस्याः । समासः ईकारान्तः
8 शफरी शफरी पुंलिङ्गः, स्त्रीलिङ्गः शफं राति । कः कृत् ईकारान्तः