पाठीनः

सुधाव्याख्या

पाठीं पृष्ठं नमयति । णम प्रह्वत्वे (भ्वा० प० अ०) । णिच् (३.१.२६) । अन्येभ्योऽपि- (वा० ३.२.१०१) इति डः । अन्येषामपि (६.३.१३७) इति दीर्घः । अवश्यं पठति । ‘पठ व्यक्तायां वाचि' (भ्वा० प० से०) । आवश्यके णिनिः (३.३.१७०) पाठी द्विजः। तस्येन इवापेक्षितः, हव्यकव्ययोः प्रशस्तत्वाद्वा । पाठीनो गुग्गुलद्रुमे । पाठके मीनभेदे च' इति हैमः ॥ द्वे बहुदंष्ट्रस्य मत्स्यस्य ।


प्रक्रिया

धातुः - पठँ व्यक्तायां वाचि , णमँ प्रह्वत्वे शब्दे च


पठँ व्यक्तायां वाचि
पठ् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पठ् + णिनि - आवश्यकाधमर्ण्ययोर्णिनिः 3.3.170
पठ् + इन् - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
पाठिन् - अत उपधायाः 7.2.116
णमँ प्रह्वत्वे शब्दे च
नम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नम् + णिच् - हेतुमति च 3.1.26
नम् + इ - चुटू 1.3.7, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
नाम् + इ - अत उपधायाः 7.2.116
नाम् + इ + ड - अन्येभ्योऽपि दृश्यते (3.2.101) । वार्तिकम् ।
नाम् + ड - णेरनिटि 6.4.51
नाम् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
न् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
पाठिन् + अम् + न - उपपदमतिङ् 2.2.19
पाठि + न - नलोपः प्रातिपदिकान्तस्य 8.2.7
पाठीन - अन्येषामपि दृश्यते 6.3.137
पाठीन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पाठीन + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पाठीन + रु - ससजुषो रुः 8.2.66
पाठीन + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पाठीनः - खरवसानयोर्विसर्जनीयः 8.3.15