प्रोष्ठी

सुधाव्याख्या

प्रोष्ठीति ॥ प्रकृष्ट ओष्ठोऽस्याः । ‘ओत्वोष्ठयोः’ (वा० ६.१.९४) इति पररूपम् । नासिकोदरौष्ठ-' (४.१.५५) इति ‘जातेः (४.१.६३) इति वा, ङीष् । द्वयोः’ इत्यनेन सम्बन्धात् 'प्रोष्ठ:’ अपि ॥


प्रक्रिया

प्र + ओष्ठ + सु - प्रादयो गताद्यर्थे प्रथमया (2.2.18) । वार्तिकम् ।
प्र + ओष्ठ - सुपो धातुप्रातिपदिकयोः 2.4.71
प्रोष्ठ - ओत्वोष्ठयोः समासे वा (6.1.94) । वार्तिकम् ।
प्रोष्ठ + ङीष् - नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च 4.1.55
प्रोष्ठ + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
प्रोष्ठ् + ई - यस्येति च 6.4.148
प्रोष्ठी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रोष्ठी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रोष्ठी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68