चिलिचिमः

सुधाव्याख्या

चिल विलसने (तु० प० से०) । ‘इगुपधात्कित्' (उ० ४.१२०) । वीप्सायां द्वित्वम् (८.१.४) । चिलिं चिलिं विलासं मिमीते । ‘माङ् माने' (जु. आ. अ.) । ‘आतोऽनुप-' (३.२.३) इति कः । (पृषोदरादिः) (६.३.१०९) । त्रीकारोऽदन्तः । ‘नलमीनश्चिलीचिमो बृहन्मीनोऽब्धिजस्तिमि:’ इति रत्नमाला । ‘लक्ष्मणा सारसी क्रौञ्ची नलमीनचिलीचिमिः’ इति बोपालिताच्चतुरिकारवान्मध्यदीर्घ इदन्तोऽपि ॥ द्वे नलवनचारिणो मत्स्यविशेषस्य ।


प्रक्रिया

धातुः - चिलँ वसने , माङ् माने


चिलँ वसने
चिल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चिल् + इन् - इगुपधात्कित् (४.१२०) । उणादिसूत्रम् ।
चिल् + इ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
चिलि + चिलि - नित्यवीप्सयोः 8.1.4
माङ् माने
मा - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
चिलिचिलि + मा + क - आतोऽनुपसर्गे कः 3.2.3
चिलिचिलि + मा + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
चिलिचिलि + म् + अ - आतो लोप इटि च 6.4.64
चिलिचिम - पृषोदरादीनि यथोपदिष्टम् 6.3.109
चिलिचिम + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
चिलिचिम + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चिलिचिम + रु - ससजुषो रुः 8.2.66
चिलिचिम + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चिलिचिमः - खरवसानयोर्विसर्जनीयः 8.3.15