अमरकोशः


श्लोकः

तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम् । निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ ॥ ९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पुलिन पुलिनम् नपुंसकलिङ्गः पुलति । इनन् उणादिः अकारान्तः
2 सैकत सैकतम् नपुंसकलिङ्गः सिकता: सन्त्यस्मिन् । अण् तद्धितः अकारान्तः
3 सिकतामय सिकतामयम् नपुंसकलिङ्गः सिकतानां विकारः । मयट् अकारान्तः
4 निषद्वर निषद्वरः पुंलिङ्गः निषेति । ष्वरच् उणादिः अकारान्तः
5 जम्बाल जम्बालः पुंलिङ्गः जमति । बालन् बाहुलकाद् अकारान्तः
6 पङ्क पङ्कः पुंलिङ्गः, नपुंसकलिङ्गः पच्यते । घञ् कृत् अकारान्तः
7 शाद शादः पुंलिङ्गः शीयन्तेऽस्मिन्ननेन वा । घञ् कृत् अकारान्तः
8 कर्दम कर्दमः पुंलिङ्गः कर्दति । अम उणादिः अकारान्तः