पङ्कः

सुधाव्याख्या

पच्यते । ‘पचि विस्तारे’ (चु० प० से०) । कर्मणि घञ् (३.३.१९) । ‘हलश्च (३.३.१२१) इति करणे वा । ‘पङ्कोऽस्त्री कर्दमे पापे' इति मेदिनी ॥


प्रक्रिया

धातुः - पचिँ विस्तारवचने


पच् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प + नुम् + च् - इदितो नुम् धातोः 7.1.58
प + न् + च् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पंच् - नश्चापदान्तस्य झलि 8.3.24
पञ्च् - अनुस्वारस्य ययि परसवर्णः 8.4.58
पञ्च् + घञ् - अकर्तरि च कारके संज्ञायाम् 3.3.19
पञ्च् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
पङ्क् + अ - चजोः कु घिन्ण्यतोः 7.3.52
पङ्क + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पङ्क + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पङ्क + रु - ससजुषो रुः 8.2.66
पङ्क + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पङ्कः - खरवसानयोर्विसर्जनीयः 8.3.15