निषद्वरः

सुधाव्याख्या

निषेति । निषीदन्त्यत्र । ‘षद्लृ विशरणगत्यवसादनेषु’ (भ्वा०, तु० प० अ०) । 'नौ सदेः’ (उ० २.१२२) इति ष्वरच् । सदिरप्रतेः’ (८.३.६६) इति षत्वम् । यद्वा निषदनम् । सम्पदादि क्विप् (वा० ३.३.१०८) । निषद आसनस्य वर आवारकः । ‘वृञ् आवरणे' (चु० उ० से०) । आधृषीयः पचाद्यच् (३.१.१३४) । ‘निषद्वरः स्मरे पङ्के निशायां तु निषद्वरी’ इति विश्वः ।