शादः

सुधाव्याख्या

शीयन्तेऽस्मिन्ननेन वा । ‘षद्लृ शातने' (भ्वा०, तु० प० अ०) । घञ् (३.३.१२१) । यद्वा शीयते नश्यति । ज्वलितिकसन्तेभ्यो ण:’ (३.१.१४०) । यद्वा श्यति । 'शो तनूकरणे’ (दि० प० अ०) । ‘शाशपिभ्यां ददनौ' (उ० ४.९७) इति दः । ’शादः कर्दमशष्पयो:’ इति हैमः ।