अमरकोशः


श्लोकः

स्यात्किन्नरः किंपुरुषस्तुरङ्गवदनो मयुः । निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधे: ॥ ७१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 किंनर किन्नरः पुंलिङ्गः किंचित् कुत्सितो वा नरः तत्पुरुषः समासः अकारान्तः
2 किंपुरुष किंपुरुषः पुंलिङ्गः कुत्सितः पुरुषः । तत्पुरुषः समासः अकारान्तः
3 तुरङ्गवदन तुरङ्गवदनः पुंलिङ्गः तुरंगस्येव वदनमस्य बहुव्रीहिः समासः अकारान्तः
4 मयु मयुः पुंलिङ्गः मिनोति । उणादिः उकारान्तः
5 निधि निधिः पुंलिङ्गः नितरां धीयते । कि कृत् इकारान्तः
6 शेवधि शेवधिः पुंलिङ्गः शे कल्याणे मोहे वावधिः । तत्पुरुषः समासः इकारान्तः
7 पद्म पद्मः पुंलिङ्गः, नपुंसकलिङ्गः पद्मा लक्ष्मीरस्मिन्नस्ति । अच् तद्धितः अकारान्तः
8 शङ्ख शङ्खः पुंलिङ्गः शाम्यत्यम्बु दुःखं वा ध्मातेनानेन । उणादिः अकारान्तः