शेवधिः

सुधाव्याख्या

शे कल्याणे मोहे वावधिः । 'तत्पुरुषे-(६.३.१४) इत्यलुक् । यद्वा शेतेऽनेन शेवं सुखम् । 'इण्शीभ्यां वन्’ (उ० १.१५२) । शेवं धीयतेऽस्मिन् । धाञः (जु० उ० अ०) 'कर्मण्यधिकरणे च' (३.३.९३) इति कि: ।