निधिः

सुधाव्याख्या

निधिरिति । नितरां धीयते । धाञः (जु० उ० अ०) । कि: (३.३.९२) । नितरां दधाति पोषयत्यनेन । निधीयते वा । ‘धि धारणे' (तु० प० अ०) संपदादिः (वा०३३.१०८) आगमशासनस्यानित्यत्वान्न तुक् ।