शङ्खः

सुधाव्याख्या

शाम्यत्यम्बु दुःखं वा ध्मातेनानेन । शमेः खः (उ० १.१०२) । (‘शङ्खः कम्बौ निधेर्भेदे स्यान्नख्यामलिकास्थनि । वलने दिनभागे च नागभेदे') ॥ ‘पद्मोऽस्त्रियां महापद्मः शङ्खो मकर-कच्छपौ । मुकुन्द-कुन्द-नीलाश्च खर्वश्च निधयो नव’ इति शब्दार्णव: ।