किंपुरुषः

सुधाव्याख्या

एवं किंपुरुषः । कुत्सा च कस्यचिन्नरमुखाश्वकायत्वात्, कस्यचिदश्वमुखनरशरीरत्वात् । अथ किंपुरुषो लोकभेदकिंनरयोः पुमान् ।