अमरकोशः


श्लोकः

जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः। सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा ॥ ४२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 जिष्णु जिष्णुः पुंलिङ्गः जयति । ग्स्नुः कृत् उकारान्तः
2 लेखर्षभ लेखर्षभः पुंलिङ्गः लेखेषु ऋषभः । तत्पुरुषः समासः अकारान्तः
3 शक्र शक्रः पुंलिङ्गः शक्नोति । रक् उणादिः अकारान्तः
4 शतमन्यु शतमन्युः पुंलिङ्गः शतं मन्यवो यागा अस्य । बहुव्रीहिः समासः उकारान्तः
5 दिवस्पति दिवस्पतिः पुंलिङ्गः दिवः पतिः । तत्पुरुषः समासः इकारान्तः
6 सुत्रामन् सुत्रामा पुंलिङ्गः सुष्ठु त्रायते । मनिन् कृत् नकारान्तः
7 गोत्रभिद् गोत्रभिद् पुंलिङ्गः गोत्रान् गिरीन् भिनत्ति । तत्पुरुषः समासः दकारान्तः
8 वज्रिन् वज्री पुंलिङ्गः वज्रोऽस्यास्ति । इनि तद्धितः नकारान्तः
9 वासव वासवः पुंलिङ्गः वसवो देवा वसूनि रत्नान्यस्य वा सन्ति । बहुव्रीहिः समासः अकारान्तः
10 वृत्रहन् वृत्रहा पुंलिङ्गः वृत्रं हतवान् । तत्पुरुषः समासः नकारान्तः
11 वृषन् वृषा पुंलिङ्गः वर्षति । कनिन् उणादिः नकारान्तः