सुत्रामा

सुधाव्याख्या

सुष्ठु त्रायते । 'त्रैङ् पालने (भ्वा० आ० से०) । आतो मनिन्-' (३.२.७४) । सु उद् इत्युपसर्गद्वयप्रयोगे तु ‘सूत्रामा दीर्घादिरपि । एतेन अन्येषामपि’ (६.३.१३७) इति दीर्घत्वे ‘सुत्रामा’ इति वदन्मुकुटः प्रत्युक्त: ॥