अमरकोशः
वज्री
सुधाव्याख्या
वज्रोऽस्यास्ति । अत इनि-' (५.२.११५) । वज्री तु बुद्धे देवाधिपे पुमान् ।
प्रक्रिया
वज्र + सु + इनि
-
अत इनिठनौ 5.2.115
वज्र + इनि
-
सुपो धातुप्रातिपदिकयोः 2.4.71
वज्र + इन्
-
उपदेशेऽजनुनासिक इत् 1.3.2
,
तस्य लोपः 1.3.9
वज्रिन् + सु
-
स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् 4.1.2
वज्रीन् + सु
-
सौ च 6.4.13
वज्रीन् + स्
-
उपदेशेऽजनुनासिक इत् 1.3.2
,
तस्य लोपः 1.3.9
वज्रीन्
-
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68
वज्री
-
नलोपः प्रातिपदिकान्तस्य 8.2.7
Find words details involved in this Prakriya