जिष्णुः

सुधाव्याख्या

जयति । 'जि जये, अभिभवे वा’ (भ्वा० प० अ०) । 'ग्लाजिस्थश्च-’ (३.२.१३९) इति ग्स्नुः । जिष्णुर्ना वासवेऽर्जुने । जित्वरे वाच्यवत्प्रोक्तो विष्णावर्के वसुष्वपि' ।