दिवस्पतिः

सुधाव्याख्या

दिवः पतिः । 'तत्पुरुषे कृति-’ (६.३.१४) इत्यत्र बहुलग्रहणादकृत्यप्यलुग् इति मुकुटः । तन्न । ‘पातेर्डतिः’ (४.५७) इत्युणादिसूत्रसत्त्वात् । वस्तुतस्तु ‘षष्ठ्याः पतिपुत्र -’ (८.३.५३) इति सत्वविधानसामथ्र्याल्लोकवेदसाधारण्येन 'वृद्धकुमारीवर न्यायेनालुक् ज्ञापितः । कस्कादित्वात् (८.४.४८) सः । यत्तु — ‘षष्ठ्याः पतिपुत्र-' (८.३.५३) इति सत्वम् इति मुकुटेनोक्तम् । तन्न । तत्र छन्दोऽधिकारात् ॥