अमरकोशः


श्लोकः

बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः । षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः ॥ ४० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बाहुलेय बाहुलेयः पुंलिङ्गः बहुलानां कृत्तिकानामपत्यम् । ढक् तद्धितः अकारान्तः
2 तारकजित् तारकजित् पुंलिङ्गः तारकं जयति । तत्पुरुषः समासः तकारान्तः
3 विशाख विशाखः पुंलिङ्गः विशाखति । अच् कृत् अकारान्तः
4 शिखिवाहन शिखिवाहनः पुंलिङ्गः शिखी मयूरो वाहनमस्य । बहुव्रीहिः समासः अकारान्तः
5 षाण्मातुर षाण्मातुरः पुंलिङ्गः षण्णां मातॄणामपत्यम् । अण् तद्धितः अकारान्तः
6 शक्तिधर शक्तिधरः पुंलिङ्गः शक्तेर्धरः । तत्पुरुषः समासः अकारान्तः
7 कुमार कुमारः पुंलिङ्गः कुमारयति क्रीडति । अच् कृत् अकारान्तः
8 क्रौञ्चदारण क्रौञ्चदारणः पुंलिङ्गः क्रौञ्चस्य पर्वतस्य दारणः । तत्पुरुषः समासः अकारान्तः