विशाखः

सुधाव्याख्या

विशाखति । शाखृ श्लाखृ व्याप्तौ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । विशाखायां जात इति वा । ‘संधिवेलादि- (४.३.१६) इत्यणः श्रविष्ठाफल्गुनी-' (४.३.३४) इत्यादिना लुकि 'लुक्तद्धितलुकि (१.२.४९) ('विशाखो याचके स्कन्दे विशाखा भे कठिल्लके') ।