क्रौञ्चदारणः

सुधाव्याख्या

क्रुञ्चेः (भ्वा० प० से०) । क्विन् (३.२.५९) । प्रज्ञाद्यण् (५.४.३८) । क्रौञ्चस्य पर्वतस्य दारणः । दॄ विदारणे’ (भ्वा० प० से०) । ण्यन्तात् (३.१.२६) । ल्युः (३.१.१३४) । कैलासे धनदावासे कौञ्चःक्रौञ्चोऽभिधीयते’ इति वृहद्धारावली । अत: ‘कौञ्चदारणः अपि ।


प्रक्रिया

धातुः - क्रुन्चँ गतिकौटिल्याल्पीभावयोः,दॄ विदारणे


क्रुन्चँ गतिकौटिल्याल्पीभावयोः
क्रुञ्च् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्रुञ्च् + क्विन् - ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च 3.2.59
क्रुञ्च् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्रुञ्च् - वेरपृक्तस्य 6.1.67
क्रुञ्च् + अण् - प्रज्ञादिभ्यश्च 5.4.38
क्रुञ्च् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
क्रुञ्चति इति क्रौञ्चः ।
दॄ विदारणे
दॄ + णिच् - हेतुमति च 3.1.26
दॄ + इ -हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
दार् + इ - अचो ञ्णिति 7.2.115
दारि + ल्यु - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
दार् + ल्यु - णेरनिटि 6.4.51
दार् + यु - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
दार् + अन - युवोरनाकौ 7.1.1
दारणः - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
क्रौञ्च + ङस् + दारण + सु - षष्ठी 2.2.8
क्रौञ्च + दारण - सुपो धातुप्रातिपदिकयोः 2.4.71
क्रौञ्चदारण + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
क्रौञ्चदारण + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्रौञ्चदारण + रु - ससजुषो रुः 8.2.66
क्रौञ्चदारण + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्रौञ्चदारणः - खरवसानयोर्विसर्जनीयः 8.3.15