कुमारः

सुधाव्याख्या

कुमारयति क्रीडति । ‘कुमार क्रीडायाम् (चु० उ० से०) । पचाद्यच् (३.१.१३४) । कुत्सितो मारोऽस्येति वा । ‘कुः पापेषदर्थयोः । कौ मारयति दुष्टान् । पचाद्यच् (३.१.१३४) । यत्तु—ब्रह्मचारित्वात्कुमारः इति स्वामिनोक्तम् । तन्न । 'शतक्रतो रूपवती देवसेनेति या सुता । सा महेन्द्रेण रत्यर्थं भार्यात्वेनोपपादिता । उदीर्णसेनापतये महासेनाय सुव्रत' इति वायुपुराणात् । कुमारः स्याच्छुके स्कन्दे युवराजेऽश्ववारके बालके वरुणद्रौ ना न द्वयोर्जात्य काञ्चने') ।