अमरकोशः


श्लोकः

कपर्दोऽस्य जटाजूट: पिनाकोऽजगवं धनुः । प्रमथाः स्युः पारिषदा: ब्राह्मीत्याद्यास्तु मातरः ॥ ३५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कपर्द कपर्दः पुंलिङ्गः समासः अकारान्तः
2 जटाजूट जटाजूटः पुंलिङ्गः जटानां जूटो बन्धः । तत्पुरुषः समासः अकारान्तः
3 पिनाक पिनाकः पुंलिङ्गः पाति । आक उणादिः अकारान्तः
4 अजगव अजगवम् नपुंसकलिङ्गः अजेन ब्रह्मणा गम्यते । तत्पुरुषः समासः अकारान्तः
5 प्रमथ प्रमथाः पुंलिङ्गः दुष्टान्प्रमथन्ति । अच् कृत् अकारान्तः
6 पारिषद पारिषदाः पुंलिङ्गः परिषदि साधवः । तद्धितः अकारान्तः
7 मातृ मातरः स्त्रीलिङ्गः मान्यन्ते पूज्यन्ते लोकमातृत्वात् इति मातरः । तृन् उणादिः ऋकारान्तः